|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.19. अध्यायः 019
Mahabharata - Udyoga Parva - Chapter Topics
सात्यकिप्रमुखानां राज्ञां स्वस्वसेनाऽऽनयनपूर्वकं युधिष्ठिरं प्रत्यागमनम् ॥ 1 ॥
भगदत्तादीनां राज्ञां दुर्योधनसाहाय्यकरणाय आगमनम् ॥ 2 ॥
Mahabharata - Udyoga Parva - Chapter Text
वैशम्पायन उवाच। 5-19-0x(3415)(32279)
युयुधानस्ततो वीरः सात्वतानां महारथः।
महता चतुरङ्गेण बलेनागाद्युधिष्ठिरम् ॥ 5-19-1(32280)
तस्य योधा महावीर्या नानादेशसमागताः।
नानाप्रहरणा वीराः शोभयांचक्रिरे बलम् ॥ 5-19-2(32281)
परश्वथैर्भिण्डिपालैः शूलतोमरमुद्गरैः ।
परिघैर्यष्टिभिः पाशैः करवालैश्च निर्मलैः ॥ 5-19-3(32282)
खङ्गकार्मुकनिर्यूहैः शरैश्च विविधैरपि ।
तैलधौतैः प्रकाशद्भिस्तदशोभत वै बलम् ॥ 5-19-4(32283)
तस्य मेघप्रकाशस्य सौवर्णौः शोभितस्य च।
बभूव रूपं सैन्यस्य मेघस्येव सविद्युतः ॥ 5-19-5(32284)
अक्षौहिणी तु सा सेना तदा यौधिष्ठिरं बलम्।
प्रविश्यान्तर्दधे राजन्सागरं कुनदी यथा ॥ 5-19-6(32285)
तथैवाक्षौहिणीं गृह्य चेदीनामृषभो बली ।
धृष्टकेतुरुपागच्चत्पाण्डवानमितौजसः ॥ 5-19-7(32286)
मागधश्च जयत्सेनो जारासन्धिर्महाबलः ।
अक्षौहिण्यैव सैन्यस्य धर्मराजमुपागमत् ॥ 5-19-8(32287)
तथैव पाण्ड्यो राजेन्द्र सागरानूपवासिभिः।
वृतो बहुविधैर्योधैर्युधिष्ठिरमुपागमत्॥ 5-19-9(32288)
तस्य सैन्यमतीवासीत्तस्मिन्बलसमागमे।
प्रेक्षणीयतरं राजन्सुवेषं बलवत्तदा ॥ 5-19-10(32289)
` केकयाश्च नरव्याघ्राः सोदराः पञ्च पार्थिवाः ।
संहर्षयन्तः कौन्तेयोनक्षौहिण्या समागताः ॥' 5-19-11(32290)
द्रुपदस्याप्यभूत्सेना नानादेशसमागतैः।
शोभिता पुरुषैः शूरैः पुत्रैश्चास्य महारथैः ॥ 5-19-12(32291)
तथैव राजा मत्स्यानां विराटो वाहिनीपतिः ।
पार्वतीयैर्महीपालैः सहितः पाण्डवानयात् ॥ 5-19-13(32292)
इतश्चेतश्च पाण्डूनां समाजग्मुर्महात्मनाम् ।
अक्षौहिण्यस्तु सप्तैव विविधध्वजसङ्कुलाः ॥ 5-19-14(32293)
युयुत्समानाः कुरुभिः पाण्डवान्समहर्षयन् ।
तथैव धार्तराष्ट्रस्य हर्षं समभिर्धयन् ॥ 5-19-15(32294)
भगदत्तो महीपालः सेनामक्षौहिणीं ददौ।
तस्य चीनैः किरातैश्च काञ्चनैरिव संवृतम् ॥ 5-19-16(32295)
बभौ बलमनाधृष्यं कर्णिकारवनं यथा।
तथा भूरिश्रवाः शूरः शल्यश्च कुरुनन्दन ॥ 5-19-17(32296)
दुर्योधनमुपायातावक्षौहिण्या पृथक्पृथक् ।
कृतवर्मा च हार्दिक्यो भोजान्धकुकुरैः सह ॥ 5-19-18(32297)
अक्षौहिण्यैव सेनाया दुर्योधनमुपागमत्।
तस्य तैः पुरुषव्याघ्रैर्वनमालाधरैर्बलम् ॥ 5-19-19(32298)
अशोभत यथा मत्तैर्वनं प्रक्रीडितैर्गजैः ।
जयद्रथमुखाश्चान्ये सिन्धुसौवीरवासिनः ॥ 5-19-20(32299)
आजग्मुः पृथिवीपालाः कम्पयन्त इवाचलान्।
तेषामक्षौहिणी सेना बहुला विबभौ तदा॥ 5-19-21(32300)
विधूयमानो वातेन बहुरूप इवाम्बुदः।
सुदक्षिणश्च काम्भोजो यवनैश्च शकैस्तथा ॥ 5-19-22(32301)
उपाजगाम कौरव्यमक्षौहिण्या विशांपते ।
तस्य सेनासमावायः शलभानामिवाबभौ ॥ 5-19-23(32302)
स च संप्राप्य कौरव्यं तत्रैवान्तर्दधे तदा।
तथा महिष्मतीवासी नीलो नीलायुधैः सह ॥ 5-19-24(32303)
महीपालो महावीर्यैर्दक्षिणापथवासिभिः ।
आवन्त्यौ च महीपालौ महाबलसुसंवृतौ ॥ 5-19-25(32304)
पृथगक्षौहिणीभ्यां तावभियातौ सुयोधनम् ।
ततस्ततस्तु सर्वेषां भूमिपानां महात्मनाम् ॥ 5-19-26(32305)
तिस्रोऽन्याः समवर्तन्त वाहिन्यो भरतर्षभ ।
एवमेकादशावृत्ताः सेना दुर्योधनस्य ताः ॥ 5-19-27(32306)
युयुत्समानाः कौन्तेयान्नानाध्वजसमाकुलाः ।
न हास्तिनपुरे राजन्नवकाशोऽभवत्तदा ॥ 5-19-28(32307)
राज्ञां स्वबलमुख्यानां प्राधान्येनापि भारत ।
ततः प़ञ्चनदं चैव कृत्स्नं च कुरुजाङ्गलम् ॥ 5-19-29(32308)
तथा रोहितकारण्यं मरुभूमिश्च केवला।
अहिच्छत्रं कालकूटं गङ्गाकूलं च भारत ॥ 5-19-30(32309)
वारणं वाटधानं च यामुनश्चैव पर्वतः।
एष देशः सुविस्तीर्णः प्रभूतधनधान्यवान् ॥ 5-19-31(32310)
बभूव कौरवेयाणां बलेनातीव संवृतः।
तत्र सैन्यं तथा युक्तं ददर्श स पुरोहितः ॥ 5-19-32(32311)
यः स पाञ्चालराजेन प्रेषितः कौरवान्प्रति ॥ ॥ 5-19-33(32312)
इति श्रीमन्महाभारते उद्योगपर्वणि सेनोद्योगपर्वणि एकोनविंशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-19-1 युयुधानः सात्यकिः ॥ 5-19-19 वनमाला आपादलम्बिनी माला 5-19-23 समावायः समूहः ॥ 5-19-30 अहिच्छत्रादयः प्रदेशविशेषाः ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|